वांछित मन्त्र चुनें

अ॒स्याजरा॑सो द॒माम॒रित्रा॑ अ॒र्चद्धू॑मासो अ॒ग्नय॑: पाव॒काः । श्वि॒ती॒चय॑: श्वा॒त्रासो॑ भुर॒ण्यवो॑ वन॒र्षदो॑ वा॒यवो॒ न सोमा॑: ॥

अंग्रेज़ी लिप्यंतरण

asyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ | śvitīcayaḥ śvātrāso bhuraṇyavo vanarṣado vāyavo na somāḥ ||

पद पाठ

अ॒स्य । अ॒जरा॑सः । द॒माम् । अ॒रित्राः॑ । अ॒र्चत्ऽधू॑मासः । अ॒ग्नयः॑ । पा॒व॒काः । श्वि॒ती॒चयः॑ । श्वा॒त्रासः॑ । भु॒र॒ण्यवः॑ । व॒न॒ऽसदः॑ । वा॒यवः॑ । न । सोमाः॑ ॥ १०.४६.७

ऋग्वेद » मण्डल:10» सूक्त:46» मन्त्र:7 | अष्टक:8» अध्याय:1» वर्ग:2» मन्त्र:2 | मण्डल:10» अनुवाक:4» मन्त्र:7


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य) इस उपासक के (दमाम्) दमनकर्ता बाधकों से (अरित्राः) रक्षा करनेवाला (अजरासः) जरारहित (अर्चद्धूमासः) अर्चनीय तेजवाला (पावकः) पवित्रकारक (श्वितीचयः) शुभ्रस्वरूप, (श्वात्रासः) शीघ्रकारी, (भुरण्यवः) पालनकर्त्ता (वनर्षदः) सम्भक्ति-स्तुति करनेवाले में प्राप्तिशील-प्राप्त होनेवाला (वायवः-न सोमाः) वायु के समान प्राप्त होनेवाला शान्तस्वरूप (अग्नयः) ज्ञानप्रकाशक परमात्मा है ॥७॥
भावार्थभाषाः - उपासक के बाधकों को नष्ट करनेवाला, उनसे रक्षा करनेवाला परमात्मा अजर, अर्चनीय, तेजवाला, पवित्रकर्ता, शुभ्रस्वरूपवाला, शीघ्रकारी, पालनकर्ता, उपासक के हृदय में प्राप्त होनेवाला, शान्त गतिमान् और ज्ञानप्रकाशक है ॥७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अस्य) एतस्योपासकस्य (दमाम्) दमनकर्तृभ्यो बाधकेभ्यः “दमाम्-यो दामयति तम्” [ऋ० ६।३।७ दयानन्दः] (अरित्राः) तेभ्य एव अरिभ्यस्त्राता “अरित्राः-ये अरिभ्यस्त्रायन्ते ते” [यजु० ३३।१ दयानन्दः] ‘अत्र सर्वत्र बहुवचनमादरार्थम्’ (अजरासः) अजरः-जरारहितः (अर्चद्धूमासः) ज्वलत्तेजाः-अर्चनीयतेजोयुक्तो वा (पावकाः) पवित्रकारकः (श्वितीचयः) श्वेतवर्णसंस्त्यानः शुभ्रः “श्वितीचयः ये श्वितिं श्वेतवर्णं चिन्वन्ति ते” [यजु० ३३।१ दयानन्दः] (श्वात्रासः) शीघ्रकारी (भुरण्यवः) पालनकर्त्ता (वनर्षदः) ये वने वनयितरि सम्भाजयितरि स्तोतरि सीदन्ति ते-स्तोतरि प्रापणशीलः “वनर्षदः ये वने सीदन्ति ते” [ऋ० २।३१।१ ‘वा छन्दसीति रुडागमः’ दयानन्दः] (वायवः-न सोमाः) वायव इव शान्तप्रवाहाः-वायुरिव शान्तप्रवाहवान् (अग्नयः) ज्ञानप्रकाशकः परमात्माऽस्ति ॥७॥